गुरुदेवता भजनमंजरी

सरसिजनाजनाभसोदरि

घोषः

भवानी माता की जय

श्लोकः

शिवः शक्त्या युक्तो यदि भवति
शक्तः प्रभवितुं
न चेदेवं देवो न खलु
कुशलः स्पंदितुमपि |
अतस्त्वामाराध्यां हरिहर­विरिंचादिभिरपि
प्रणंतुं स्तोतुं वा कथम­कृतपुण्यः प्रभवति ||

कीर्तनम् — 3

रागः : नागगांधारी

तालः : रूपक

सरसिजनाजनाभसोदरि
शंकरि पाहिमाम् |
वरदाभयकरकमले
शरणागत वत्सले ||

परंधाम प्रकीर्तिते
पशुपाशविमोचिके
पन्नगाभरणयुते नाग­गांधारी पूजिताब्जपदे
सदा नंदिते संपदे
वरगुरुगुह जननि मदशमनि
महिषासुर मर्दिनि मंदगमनि
मंगळ वर प्रदायिनि

नामावलिः

अंब परमेश्वरि अखिलांडेश्वरि
आदि पराशक्ति पालय माम्
श्री भुवनेश्वरि राजराजेश्वरि
आनंदरूपिणि पालय माम् ||

घोषः

भवानी माता की जय