गुरुदेवता भजनमंजरी

मुदा करेण पुस्तकं

घोषः

जगद्गुरु शंकराचार्य गुरु महाराज की जै |

कीर्तनम् — 8

मुदा करेण पुस्तकं
दधानमीशरूपिणं
तथाऽपरेण मुद्रिकां
नमत्तमोविनाशिनीम् |
कुसुंभवाससावृतं
विभूतिभासिफालकं
नताघनाशने रतं नमामि शंकरं गुरुम् ||

पराशरात्मजप्रियं
पवित्रितक्षमातलं
पुराणसारवेदिनं
सनंदनादिसेवितम् |
प्रसन्नवक्त्रपंकजं
प्रपन्नलोकरक्षकम्
प्रकाशिताद्वितीयतत्त्व­माश्रयामि देशिकम् ||

सुधांशुशेखरार्चकं
सुधींद्रसेव्यपादुकं
सुतादिमोहनाशकं
सुशांतिदांतिदायकम् |
समस्तवेदपारगं
सहस्रसूर्यभासुरं
समाहिताखिलेंद्रियं
सदा भजामि शंकरम् ||

यमींद्रचक्रवर्तिनं
यमादियोगवेदिनं
यथार्थतत्त्वबोधकं
यमांतकात्मजार्चकम् |
यमेव मुक्तिकांक्षया
समाश्रयंति सज्जना-
नमाम्यहं सदा गुरुं
तमेव शंकराभिधम् ||

स्वबाल्य एव निर्भरं
य आत्मनो दयालुतां
दरिद्रविप्रमंदिरे
सुवर्णवृष्टिमानयन् |
प्रदर्श्य विस्मयांबुधौ
न्यमज्जयत् समान्‍जनान्
स एव शंकरस्सदा
जगद्गुरुर्गतिर्मम ||

यदीयपुण्यजन्मना
प्रसिद्धिमाप कालटी
यदीयशिष्यतां व्रजन्
स तोटकोऽपि पप्रथे |
य एव सर्वदेहिनां
विमुक्तिमार्गदर्शको-
नराकृतिं सदाशिवं
तमाश्रयामि सद्गुरुम् ||

सनातनस्य वर्त्मनः
सदैव पालनाय यः
चतुर्दिशासु सन्मठान्
चकार लोकविश्रुतान् |
विभांडकात्मजाश्रमादि­सुस्थलेषु पावनान्
तमेव लोकशंकरं
नमामि शंकरं गुरुम् ||

यदीयहस्तवारिजात­सुप्रतिष्ठिता सती
प्रसिद्धशृंगभूधरे
सदा प्रशांतिभासुरे |
स्वभक्तपालनव्रता
विराजते हि शारदा
स शंकरः कृपानिधिः
करोतु मामनेनसम् ||

इमं स्तवं जगद्गुरो­र्गुणानुवर्णनात्मकं
समादरेण यः पठे­दनन्यभक्तिसंयुतः |
समाप्नुयात् समीहितं
मनोरथं नरोऽचिरात्
दयानिधेस्स शंकरस्य
सद्गुरोः प्रसादतः ||

घोषः

जगद्गुरु शंकराचार्य गुरु महाराज की जै |