गुरुदेवता भजनमंजरी

श्रीशारदांबां भजे

घोषः

जगदंबा शारदा माता की जै

श्लोकः

विद्यामुद्राक्षमालाऽ­मृतघटविलस­त्पाणिपाथोजजाले
विद्यादानप्रवीणे
जडबधिरमुखेभ्योऽपि
शीघ्रं नतेभ्यः ।
कामादीनांतरान्
मत्सहजरिपुवरान्
देवि निर्मूल्य वेगात्
विद्यां शुद्धां च बुद्धिं
कमलजदयिते सत्वरं देहि मह्यम् ||

कीर्तनम् — 4

रागः : सारमती

तालः : खंडछापु

श्रीशारदांबां भजे श्रितकल्पवल्लीम् |
कारुण्यवारांनिधिं कलिकल्मषघ्नीम्||

इंद्रादिदेवार्च्यपादांबुजाताम् |
ईशित्वमुख्याष्टसिद्धिप्रदात्रीम् ||

ऊहापथातीतमाहात्म्ययुक्ताम् |
मोहांधकारापहस्वाभिधानाम् ||

श्रीशंकराचार्यसंसेवितांघ्रिम् |
श्रीशृंगगिर्याख्यपुर्यां वसंतीम् ||

श्रीवाग्विभूत्यादिदानप्रवीणाम् |
श्रीभारतीतीर्थहृत्पद्मवासाम् ||

नामावलिः

शंकर पूजिते शारदे
शर्वसहोदरि शारदे
अभीष्टवरदे शारदे
अद्भुतचरिते शारदे
शृंगगिरिस्थे शारदे
श्रुतिप्रतिपाद्यॆ शारदे
मंगलदायिनि शारदे
संगीतप्रिये शारदे
कामितवरदे शारदे
कोमलचरणे शारदे

घोषः

जगदंबा शारदा माता की जै