गुरुदेवता भजनमंजरी

लोकवीरं महापूज्यं

घोषः

स्वामिये शरणमय्यप्प | हरिहर सुतनॆ शरणमय्यप्प |

कीर्तनम् — 3

लोकवीरं महापूज्यं
सर्वरक्षाकरं विभुम् |
पार्वती हृदयानंदं
शास्तारं प्रणमाम्यहम् ||

विप्रपूज्यं विश्ववंद्यं
विष्णुशंभ्वोः प्रियं सुतम् |
क्षिप्रप्रसादनिरतं
शास्तारं प्रणमाम्यहम् ||

मत्तमातंगगमनं
कारुण्यामृतपूरितम् |
सर्वविघ्नहरं देवं
शास्तारं प्रणमाम्यहम् ||

अस्मत्कुलेश्वरं देव­मस्मच्छत्रु विनाशनम् |
अस्मदिष्टप्रदातारं
शास्तारं प्रणमाम्यहम् ||

पांड्येशवंशतिलकं
केरले केलिविग्रहम् |
आर्तत्राणपरं देवं
शास्तारं प्रणमाम्यहम् ||

पंचरत्नाख्यमेतद्यो
नित्यं शुद्धः पठेन्नरः |
तस्य प्रसन्नो भगवान्
शास्ता वसति मानसे ||

घोषः

स्वामिये शरणमय्यप्प | हरिहर सुतनॆ शरणमय्यप्प |