गुरुदेवता भजनमंजरी

शरणं अय्यप्प स्वामि

घोषः

स्वामिये शरणमय्यप्प | हरिहर सुतनॆ शरणमय्यप्प |

श्लोकः

शबरगिरिनिवासः
सर्वलोकैकपूज्यः
नतजनसुखकारी
नम्रहृत्तापहारी |
त्रिदशदितिजसेव्यः
स्वर्गमोक्षप्रदाता
हरिहरसुतदेवः
संततं शं तनोतु ||

कीर्तनम् — 2

रागः : मध्यमावति

तालः : आदि तिस्र गति

शरणं अय्यप्प स्वामि
शरणं अय्यप्प |
शरणं अय्यप्प स्वामि
शरणं अय्यप्प ||

हरिवरासनं विश्वमोहनं
हरिदधीश्वरं आराध्यपादुकं
अरिविमर्दनं नित्यनर्तनं
हरिहरात्मजं देवमाश्रये

चरणकीर्तनं भक्तमानसं
भरणलोलुपं नर्तनालसं
अरुणभासुरं भूतनायकं
हरिहरात्मजं देवमाश्रये

प्रणयसत्यकं प्राणनायकं
प्रणतकल्पकं सुप्रभांचितं
प्रणवमंदिरं कीर्तनप्रियं
हरिहरात्मजं देवमाश्रये

तुरगवाहनं सुंदराननं
वरगधायुधं वेदवर्णितं
गुरुकृपाकरं कीर्तनप्रियं
हरिहरात्मजं देवमाश्रये

त्रिभुवनार्चितं देवतात्मकं
त्रिनयनं प्रभुं दिव्यदेशिकं
त्रिदशपूजितं चिंतितप्रदं
हरिहरात्मजं देवमाश्रये

भवभयापहं भावुकावहं
भुवनमोहनं भूतिभूषणं
धवलवाहनं दिव्यवारणं
हरिहरात्मजं देवमाश्रये

कलमृदुस्मितं सुंदराननं
कलभकोमलं गात्रमोहनं
कलभकेसरी वाजिवाहनं
हरिहरात्मजं देवमाश्रये

श्रितजनप्रियं चिंतितप्रदं
श्रुतिविभूषणं साधुजीवनं
श्रुतिमनोहरं गीतलालसं
हरिहरात्मजं देवमाश्रये

नामावलिः

शरणं अय्यप्प स्वामि शरणं अय्यप्प |
शबरिगिरीश शरणं अय्यप्प |
वीरमणिकंठ शरणं अय्यप्प |

घोषः

स्वामिये शरणमय्यप्प | हरिहर सुतनॆ शरणमय्यप्प |