गुरुदेवता भजनमंजरी

त्वत्प्रभुजीवप्रियमिच्छसि

घोषः

लक्ष्मीनरसिंह भगवान की जै | प्रह्लादवरदनिगॆ जै

कीर्तनम् — 2

त्वत्प्रभुजीवप्रियमिच्छसि
चेन्नरहरिपूजां कुरु सततं
प्रतिबिंबालंकृतिधृतिकुशलो
बिंबालंकृतिमातनुते ।
चेतोभृंग भ्रमसि वृथा
भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघ­पदसरसिजमकरंदम् ॥

शुक्तौ रजतं प्रतिभाजातं
कटकाद्यर्थसमर्थं चे-
द्दुःखमयी ते संसृतिरेषा
निर्वृतिदाने निपुणा स्यात् ।
चेतोभृंग भ्रमसि वृथा
भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघ­पदसरसिजमकरंदं ॥

आकृतिसाम्याच्छाल्मलिकुसुमे
स्थलनलिनत्वभ्रममकरोः
गंधरसाविह किमु विद्येते विफलं
भ्राम्यसि भृशविरसेस्मिन् ।
चेतोभृंग भ्रमसि वृथा
भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघ­पदसरसिजमकरंदं ॥

स्रक्चंदनवनितादीन्विषया­न्सुखदान्मत्वा तत्र विहरसे
गंधफलीसदृशा ननु तेमी
भोगानंतरदुःखकृतः स्युः ।
चेतोभृंग भ्रमसि वृथा
भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघ­पदसरसिजमकरंदं ॥

तव हितमेकं वचनं वक्ष्ये शृणु
सुखकामो यदि सततं
स्वप्ने दृष्टं सकलं हि मृषा
जाग्रति च स्मर तद्वदिति ।
चेतोभृंग भ्रमसि वृथा
भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघ­पदसरसिजमकरंदं ॥

घोषः

लक्ष्मीनरसिंह भगवान की जै | प्रह्लादवरदनिगॆ जै