गुरुदेवता भजनमंजरी

जय गंगाधर हर

जय गंगाधर हर |
जय गिरिजाधीश,
शिव जय गौरीनाथ |
त्वं मां पालय नित्यं,
त्वं मां पालय शंभो,
कृपया जगदीश |
जय हर हर हर महादेव ||

कैलासे गिरिशिखरे कल्पद्रुमविपिने,
शिव कल्पद्रुमविपिने,
गुंजति मधुकर पुंजे (2),
कुंजवने गहने |
कोकिल कूजति खेलति हंसावलिललिता,
शिव हंसावलिललिता |
रचयति कलाकलापं (2),
नृत्यति मुदसहिता,
जय हर हर हर महादेव ||

तस्मिंल्ललितसुदेशे शालामणिरचिता,
शिव शालामणिरचिता |
तन्मध्ये हरनिकटे तन्मध्ये शिवनिकटे,
गौरीमुदसहिता |
क्रीडां रचयति भूषां रंजितनिजमीशं,
शिव रंजितनिजमीशं|
इंद्रादिक सुरसेवित,
ब्रह्मादिक सुरसेवित
प्रणमति ते शीर्षम्,
जय हर हर हर महादेव ||

विबुधवधूर्बहु नृत्यति
हृदये मुदसहिता,
शिव हृदये मुदसहिता |
किन्नरगायन कुरुते (2),
सप्तस्वरसहिता |
धिनकत थै थै धिनकत
मृदंग वादयते,
शिव मृदंग वादयते |
क्वण क्वण ललिता वेणुः (2),
मधुरं नादयते,
जय हर हर हर महादेव ||

रुण रुण चरणे रचयति
नूपुरमुज्वलितं,
शिव नूपुरमुज्वलितं |
चक्रावर्ते भ्रमयति (2),
कुरुते तां धिक तां |
तां तां लुपचुप तां तां
तालं नादयते,
शिव तालं नादयते |
अंगुष्ठांगुलिनादं (2),
लास्यकतां कुरुते,
जय हर हर हर महादेव ||

कर्पूरद्युतिगौरं पंचाननसहितं,
शिव पंचाननसहितम् |
त्रिनयनशशिधरमौलिं (2),
विषधरंकंठयुतम् |
सुंदरजटाकलापं
पावकयुतभालं
शिव पावकयुतभालम् |
डमरुत्रिशूलपिनाकं (2),
करधृतनृकपालं,
जय हर हर हर महादेव ||

शंखनिनादं कृत्वा
झल्लरि नादयते,
शिव झल्लरि नादयते |
नीराजयते ब्रह्मा,
नीराजयते विष्णुर्वेदऋचां पठते |
इति मृदुचरणसरोजं
हृत्कमले धृत्वा,
शिव हृत्कमले धृत्वा |
अवलोकयति महेशं,
अवलोकयति सुरेशं,
ईशं ह्यभिनत्वा |
जय हर हर हर महादेव ||

रुंडै रचयति मालां
पन्नगमुपवीतं,
शिव पन्नगमुपवीतम् |
वामविभागे गिरिजा,
वामविभागे गौरी रूपं ह्यतिललितम् |
सुंदरसकलशरीरे
कृतभस्माभरणं,
शिवकृतभस्माभरणं |
इति वृषभध्वजरुपं,
हरशिवशंकररुपं,
तापत्रयहरणं,
जय हर हर हर महादेव ||

ध्यानं आरति समये
हृदये इति कृत्वा,
शिव हृदये इति कृत्वा |
रामं त्रिजटानाथं (2),
ईशं ह्यभिनत्वा |
संगीतमेवं प्रतिदिन­पठनं यः कुरुते,
शिव पठनं यः कुरुते |
शिवसायुज्यं गच्छति
हरसायुज्यं गच्छति,
भक्त्या यः श्रुणुते |
जय हर हर हर महादेव ||

शिव जय गंगाधर हर,
शिव जय गिरिजाधीश,
शिव जय गौरीनाथ |
त्वं मां पालय नित्यं,
त्वं मां पालय शंभो,
कृपया जगदीश |
जय हर हर हर महादेव ||

कर्पूरगौरं करुणावतारं
संसारसारं भुजगेंद्रहारम् |
सदावसंतं हृदयारविंदे
भवं भवानि सहितं नमामि ||