गुरुदेवता भजनमंजरी

सर्वं ब्रह्ममयं

कीर्तनम् — 2

सर्वं ब्रह्ममयं रे रे ||

किं वचनीयं किमवचनीयम् |
किं रचनीयं किमरचनीयम् ||

किं पठनीयं किमपठनीयम् |
किं भजनीयं किमभजनीयम् ||

किं बोद्धव्यं किमबोद्धव्यम् |
किं भोक्तव्यं किमभोक्तव्यम् ||

सर्वत्र सदा हंसध्यानम् |
कर्तव्यं भो मुक्तिनिदानम् ||