गुरुदेवता भजनमंजरी

वीताखिलविषयेच्छं

घोषः

वीर धीर शूर पराक्रम आंजनेय स्वामि की जै

कीर्तनम् — 4

वीताखिलविषयेच्छं
जातानंदाश्रुपुलकमत्यच्छम् |
सीतापतिदूताद्यं
वातात्मजमद्य भावये हृद्यम् ||

तरुणारुणमुखकमलं
करुणारसपूरपूरितापांगम् |
संजीवनमाशासे मंजुल­महिमानमंजनाभाग्यम् ||

शंबरवैरिशरातिगमंबुजदल­विपुललोचनोदारम् |
कंबुगलमनिलदिष्टं
बिंबज्वलितोष्ठमेकमवलंबे ||

दूरीकृतसीतार्तिः
प्रकटीकृतरामवैभवस्फूर्तिः |
दारितदशमुखकीर्तिः
पुरतो मम भातु
हनुमतो मूर्तिः ||

वानरनिकराध्यक्षं दानवकुल­कुमुदरविकरसदृक्षम् |
दीनजनावनदीक्षं पवन­तपःपाकपुंजमद्राक्षम् ||

एतत्पवनसुतस्य स्तोत्रं
यः पठति पंचरत्नाख्यम् |
चिरमिह निखिलान्भोगान्भुक्त्वा
श्रीरामभक्तिभाग्भवति ||

घोषः

वीर धीर शूर पराक्रम आंजनेय स्वामि की जै