गुरुदेवता भजनमंजरी

नमामि शिवं सदा

घोषः

हर नमः पार्वती पतये हर हर महादेव |

श्लोकः

कस्ते बोद्धुं प्रभवति परं
देव देव प्रभावं
यस्मादित्थं विविधरचना
सृष्टिरेषा बभूव |
भक्तिग्राह्यस्त्वमिति भगवन्
त्वामहं भक्तिमात्रात्
स्तोतुं वांछाम्यतिमहदिदं
साहसं मे सहस्व ||

कीर्तनम् — 5

रागः : हिंदुस्तानि कापि

तालः : आदि

नमामि शिवं सदा (देवं) | मुदा ||

परात्परं पार्वती प्रियं
हरिब्रह्मेंद्रसंपूजितम् ||

जटाधरं जाह्नवीयुतं
शशिकलासुरेखाधरं ||

मृत्युंजयं माधवप्रियं
कोटिकंदर्प लावण्यम् ||

नामावलिः

हे शिव शंकर नमामि
शंकर शिव शंकर शंभो
हे गिरिजापति भवानि
शंकर शिव शंकर शंभो
हे शिव शंकर नमामि
शंकर शिव शंकर शंभो
गजचर्मांबर चंद्रकलाधर
शिव शंकर शंभो

घोषः

हर नमः पार्वती पतये हर हर महादेव |