गुरुदेवता भजनमंजरी

शिवमानसपूजा

रत्नैः कल्पितमासनं हिमजलैः
स्नानं च दिव्यांबरं
नानारत्नविभूषितं मृगमदा­मोदांकितं चंदनम् |
जातीचंपकबिल्वपत्ररचितं
पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते
हृत्कल्पितं गृह्यताम् ||

सौवर्णे नवरत्नखंडरचिते
पात्रे घृतं पायसं
भक्ष्यं पंचविधं पयोदधियुतं
रंभाफलं पानकम् |
शाकानामयुतं जलं रुचिकरं
कर्पूरखंडोज्ज्वलं
तांबूलं मनसा मया विरचितं
भक्त्या प्रभो स्वीकुरु ||

छत्रं चामरयोर्युगं व्यजनकं
चादर्शकं निर्मलं
वीणाभेरिमृदंगकाहलकला
गीतं च नृत्यं तथा |
साष्टांगं प्रणतिः स्तुतिर्बहुविधा
ह्येतत्समस्तं मया
संकल्पेन समर्पितं तव विभो
पूजां गृहाण प्रभो ||

आत्मा त्वं गिरिजा मतिः सहचराः
प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना
निद्रा समाधिस्थितिः |
संचारः पदयोः प्रदक्षिणविधिः
स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं
शंभो तवाराधनम् ||

करचरणकृतं वा­क्कायजं कर्मजं वा
श्रवणनयनजं वा
मानसं वापराधम् |
विदितमविदितं वा
सर्वमेतत्क्षमस्व
जय जय करुणाब्धे
श्रीमहादेवशंभो ||