गुरुदेवता भजनमंजरी

मारमणमुमारमणं

घोषः

हरिहरात्मक चैतन्य की जै

कीर्तनम् — 3

मारमणमुमारमणं
फणधरतल्पं फणाधराकल्पम् ।
मुरमथनं पुरमथनं वंदे
बाणारिमसमबाणारिम् ॥

गोनयनमिलानयनं
रविशशिनेत्रं रवींदुवह्न्यक्षम् ।
स्मरतनयं गुहतनयं वंदे
वैकुंठमुडुपतिचूडम् ॥

कृष्णतनुमुमार्धतनुं
श्वशुरगृहस्थं सुमेरुशृंगस्थम् ।
दशवपुषं वसुवपुषं वंदे
भूजानिमचलभूजानिम् ॥

कुध्रधरमुदग्निधरं
जलधिसुताकांतमगजाकांतम् ।
गरुडस्थं वृषभस्थं वंदे
पंचास्त्रमखिलदिग्वस्त्रम् ॥

ब्रह्मसुतमृगादिनुतं
गजगिरिवासं गजेंद्रचर्मांगम् ।
सुरशरणं भवहरणं वंदे
भूदारमखिलभूदारम् ॥

पार्थसखमुपास्तमखं
जलधरकांतिं जलंधरारातिम् ।
विधिविनुतं विधुविनुतं वंदे
नीलेशमखिलभूतेशम् ॥

पीतपटमरुणजटं
परिमलदेहं पवित्रभस्मांगम् ।
जलजकरं डमरुकरं वंदे
योगस्थमखिलयोगीड्यम् ॥

चक्रकरमभयकरं मणिमय­भूषं फणामणीभूषम् ।
धृतधनुषं गिरिधनुषं वंदे
गोविंदमनघगोवाहम् ॥

वस्तां पिशंगं वसनं दिशो वा
गरुत्मता यातु ककुद्मता वा ।
निद्रातु वा नृत्यतु वाऽधिरंगं
भेदो न मे स्यात्परमस्य धाम्नः ॥

मोमारमणस्तवनं पठंति
भक्त्या हरीशयोः कृपया |
भुक्त्वेह सकल भोगानंते
गच्छंत्यनुत्तमं धाम ||

घोषः

हरिहरात्मक चैतन्य की जै