गुरुदेवता भजनमंजरी

नमस्तेऽस्तु महामाये

घोषः

महालक्ष्मी माता की जै

कीर्तनम् — 3

नमस्तेऽस्तु महामाये
श्रीपीठे सुरपूजिते |
शंखचक्रगदाहस्ते
महालक्ष्मि नमोऽस्तुते ||

नमस्ते गरुडारूढे
कोलासुरभयंकरि |
सर्वपापहरे देवि
महालक्ष्मि नमोऽस्तुते ||

सर्वज्ञे सर्ववरदे
सर्वदुष्टभयंकरि |
सर्वदुःखहरे देवि
महालक्ष्मि नमोऽस्तुते ||

सिद्धिबुद्धिप्रदे देवि
भुक्तिमुक्तिप्रदायिनि |
मंत्रपूते सदा देवि
महालक्ष्मि नमोऽस्तुते ||

आद्यंतरहिते देवि
आद्यशक्तिमहेश्वरि |
योगजे योगसंभूते
महालक्ष्मि नमोऽस्तुते ||

स्थूलसूक्ष्ममहारौद्रे
महाशक्तिमहोदरे |
महापापहरे देवि
महालक्ष्मि नमोऽस्तुते ||

पद्मासनस्थिते देवि
परब्रह्मस्वरूपिणि |
परमेशि जगन्मात­र्महालक्ष्मि नमोऽस्तुते ||

श्वेतांबरधरे देवि
नानालंकारभूषिते |
जगत्स्थिते जगन्मात­र्महालक्ष्मि नमोऽस्तुते ||

महालक्ष्म्यष्टकं स्तोत्रं
यः पठेद्भक्तिमान्नरः |
सर्वसिद्धिमवाप्नोति
राज्यं प्राप्नोति सर्वदा ||

एककाले पठेन्नित्यं
महापापविनाशनम् |
द्विकालं यः पठेन्नित्यं
धनधान्यसमन्वितः ||

त्रिकालं यः पठेन्नित्यं
महाशत्रुविनाशनम् |
महालक्ष्मिर्भवेन्नित्यं
प्रसन्ना वरदा शुभा ||

घोषः

महालक्ष्मी माता की जै